(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.52. अध्यायः 052
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मार्जुनयोर्युद्धम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-52-0x(4115)(40786)
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे ॥ 6-52-1(40787)
सञ्जय उवाच। 6-52-2x(4116)
तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः।
`तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु।'
अपारमिव संदृश्य सागरप्रतिमं बलम् ॥ 6-52-2(40788)
तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव ।
अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः ॥ 6-52-3(40789)
ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ 6-52-4(40790)
ततो युद्धं समभवत्तुमुलं रोमहर्षणम्।
तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥ 6-52-5(40791)
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताःक ।
सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥ 6-52-6(40792)
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः ।
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥ 6-52-7(40793)
सौभद्रे भीमसेने च सात्यकौ च महारथे ।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ॥ 6-52-8(40794)
एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः ।
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥ 6-52-9(40795)
अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ 6-52-10(40796)
सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः ।
विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः ॥ 6-52-11(40797)
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् ।
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥ 6-52-12(40798)
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् ।
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥ 6-52-13(40799)
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन ।
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥ 6-52-14(40800)
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना ।
सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन ॥ 6-52-15(40801)
तमब्रवीद्वासुदेवो यत्तो भव धनंजय।
एष त्वां प्रापयिष्यामि पितामहरथं प्रति ॥ 6-52-16(40802)
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् ।
प्रापयामास भीष्मस्य रथं प्रति जनेश्वर ॥ 6-52-17(40803)
चलद्बहुपातकेन बलाकावर्णवाजिना ।
समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥ 6-52-18(40804)
महता मेघनादेन रथेनामिततेजसा ।
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ॥ 6-52-19(40805)
प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः ।
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ॥ 6-52-20(40806)
त्रसयनतं रणे शूरान्मर्दयन्तं च सायकैः ।
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः ।
सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ॥ 6-52-21(40807)
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात्।
द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति ॥ 6-52-22(40808)
ततो भीष्मो महाराज सर्वलोकमहारथः ।
अर्जुनं सप्ततसप्तत्या नाराचानां समाचिनोत् ॥ 6-52-23(40809)
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः।
दुर्योधनश्रतुःषष्ट्या शल्यश्च नवभिः शरैः ॥ 6-52-24(40810)
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः ।
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥ 6-52-25(40811)
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः।
न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥ 6-52-26(40812)
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः ।
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥ 6-52-27(40813)
शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः ।
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥ 6-52-28(40814)
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः।
सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनंजयम् ॥ 6-52-29(40815)
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्।
अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥ 6-52-30(40816)
भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम्।
अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त पाण्डवाः ॥ 6-52-31(40817)
तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत्।
प्रविवेश ततो मध्यं नरसिंहः प्रतापवान् ॥ 6-52-32(40818)
तेषां महारथानां स मध्यं प्राप्य धनंजयः।
चिक्रीड धनुषा राजँल्लक्षं कृत्वा महारथान् ॥ 6-52-33(40819)
`क्षत्रियाणां शिरांस्युग्रैः कृन्तञ्शस्त्रैर्महारथः ।
शून्यान्कृत्वा रथोपस्थान्व्यचरत्फल्गुनस्तदा ।' 6-52-34(40820)
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः ।
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥ 6-52-35(40821)
एष पाण्डुसुतस्तात कृष्णेन सहितो बली।
यततां सर्वसैन्यानां मूलं नः परिकृन्तति।
त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे ॥ 6-52-36(40822)
त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते।
न युध्यति रणे पार्थान्हितकामः सदा मम।
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ॥ 6-52-37(40823)
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव।
धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति ॥ 6-52-38(40824)
उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः ।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिषत ॥ 6-52-39(40825)
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः ।
परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥ 6-52-40(40826)
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् ।
स्थिता युद्धाय महते ततो युद्धमवर्तत ॥ 6-52-41(40827)
गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः ।
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः ॥ 6-52-42(40828)
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।
अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥ 6-52-43(40829)
शरजालं ततस्तत्तु शरजालेन मारिष।
वारयामास पार्थस्य भीष्मः शान्तनवस्तदा ॥ 6-52-44(40830)
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ ।
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥ 6-52-45(40831)
भीष्मचापविमुक्तानि शरजालानि शङ्घशः।
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैःक ॥ 6-52-46(40832)
तथैवार्जुनमुक्तानि शरजालानि सर्वशः ।
गाङ्गेयशरनुन्नानि प्रापतन्त महीतले ॥ 6-52-47(40833)
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः ।
भीष्मोपि समरे पार्थं विव्याध निशितैः शरैः । 6-52-48(40834)
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ ।
रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ॥ 6-52-49(40835)
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः।
वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ 6-52-50(40836)
भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः ।
विरराज रणे राजन्सपुष्प इव किंशुकः ॥ 6-52-51(40837)
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् ।
सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः ॥ 6-52-52(40838)
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति।
न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे ॥ 6-52-53(40839)
तौ मण्डलानि चित्राणि गतत्प्रत्यागतानि च।
अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥ 6-52-54(40840)
अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् ।
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥ 6-52-55(40841)
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः ।
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥ 6-52-56(40842)
तयोः शङ्खनिनादेन रथनेमिस्वनेन च।
दारिता सहसा भूमिश्चकम्पे च ननाद च ॥ 6-52-57(40843)
नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ ।
बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ ॥ 6-52-58(40844)
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः ।
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरेक ॥ 6-52-59(40845)
तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम्।
विस्कमयं सर्वभूतानि जग्मुर्भारतसंयुगे ॥ 6-52-60(40846)
न तयोर्विवरं कश्चिद्रणे पश्यति भारत।
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥ 6-52-61(40847)
उभौ च शरजालेन तावदृश्यो बभूवतुः।
प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे॥ 6-52-62(40848)
तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह।
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥ 6-52-63(40849)
न शक्यौ युधि संरब्धौ जेतुमेतौ कथंचन।
सदेवासुरगन्धर्वैर्लोकैरपि महारथौ ॥ 6-52-64(40850)
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् ।
नैतादृशानि युद्धानि भविष्यन्ति कथंचन ॥ 6-52-65(40851)
न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता।
सधनुः सरथः साश्वः प्रवपन्सायकान्रणे ॥ 6-52-66(40852)
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् ।
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥ 6-52-67(40853)
आलोकादपि युद्धं हि सममेतद्भविष्यति।
इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यकस्ततस्ततः।
गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशांपते ॥ 6-52-68(40854)
त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत।
अन्योन्यं समरे जघ्नुस्तयोस्तत्र समागमे ॥ 6-52-69(40855)
शितधारैस्तथा स्वङ्गैर्विमलैश्च परश्वधैः ।
शरैरन्यैश्च बहुभिः सस्त्रैर्नानाविधैरपि ॥ 6-52-70(40856)
उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् ।
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे।
द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥ ॥ 6-52-71(40857)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे द्विपञ्चशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-52-10 व्यतिकरो मेलकः। समागम इत्यर्थः ॥ 6-52-15 दृढधन्वना भीष्मेण ॥ 6-52-55 अन्तरं छिद्रम्। तर्कयन्तौ चिन्तयन्तौ। अन्तरमार्गस्थौ छिद्रान्वेषणपरौ ॥ 6-52-59 चिह्नं ध्वजः ॥ 6-52-68 आलोकात् आसंसारस्थितेः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.